शालाभिर्बहुभिर्युक्तं सभा भिरुषशोभितम्
मध्ये सिंहासनं दिव्यं चिन्तामणिवीनिर्मितम्
विलोक्य चिन्तयामास ब्रह्मा लोकपितामहः
पुरस्यास्य प्रभावेण सर्वलोकाधिको भवेत्
अनुकूलाङ्गनायुक्तमभिषिञ्चेदिति श्रुतिः
वरो ऽस्यास्त्रिषु लोकेषु न चान्यः शङ्करादृते
कल्माषी भस्मदिग्धाङ्गः श्मशानास्थिविभूषणः
इति चिन्तयमानस्य ब्रह्मणो ऽग्रे महेश्वरः
दिव्यांबरधरः स्रग्वी दिव्यगन्धानुलेपनः
प्रादुर्बभूव पुरतो जगन्मोहन रुपधृक्
चक्रे कामेश्वरं नाम्ना कमनीयवपुर्धरम्
इति निश्चित्य तेनैव सहितास्तामथाययुः
अभवन्मन्मथाविष्टो विस्मृत्य सकलाः क्रियाः
अन्योन्यालोकनासक्तौ तावृभौ मदनातुरौ
परैरज्ञातचारित्रौ मुहूर्तास्वस्थचेतनौ
त्वामीशां द्रष्टुमिच्छन्ति सप्रियां परमाहवे
लोकसंरक्षणार्थाय भजस्व पुरुषं परम्
अभिषिक्तां महाभागैर्देवार्षे भिरकल्मषैः
सप्रियामासनगतां द्रष्टुमिच्छामहे वयम्
उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान्
ममानुरूपचरितो भविता तु मम प्रियः
उवाच च महादेवीं धर्मार्थसहितं वचः
नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः
गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका
यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम्
त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः
त्वामेव हि प्रशंसंति पञ्चब्रह्मस्वरूपिणीम्
भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया
स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे