आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः
हृदयस्थापि लोकानामदृश्या मोहनात्मिका
नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः
पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः
दधार स्वयमेवैका तस्यै देव्यै नमोनमः
यस्यामुदेति सविता तस्यै देव्यै नमोनमः
यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः
नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै
नमोनमस्ते ऽखिलरूपतन्त्रे नमोनमस्ते ऽखिलयन्त्ररूपे
नमो ऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमोनमः शांभवि सर्वशक्त्यै
अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमंब वर्णये
प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि
भूयोभूयो नमस्कृत्य शरणं जगमुरञ्जसा
वरेण च्छन्दयामास वरदाखिलदेहिनाम्
दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः
अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम्
ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः
विद्याविनयसंपन्ना नीरोगा दीर्घजीविनः
इति लब्धवरा देवा देवेन्द्रो ऽपि महाबलः
आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः
आजगामाथ देवेशीं द्रष्टुकामो महर्षिभिः
शिवो ऽपि वृषमारूढः समायातो ऽखिलेश्वरीम्
आययुस्तां महादेवीं सर्वे चाप्सरसां गणाः
ब्रह्मणाथ समादिष्टो विश्वकर्मा विशांपतिः
ततो भगवती दुर्गा सर्वमन्त्राधिदेवता
ब्राहयाद्या मातरश्चैव स्वस्वभूतगणावृताः
भैरवाः क्षेत्रपालाश्च महाशास्ता गणाग्रणीः
आगत्य ते महादेवीं तुष्टुवुः प्रणतास्तदा
गजाश्वरथशालाढ्यां राजवीथिविराजिताम्
वेतालदासदासीनां गृहाणि रुचिराणि च