अणोरणुतरे देवि महतो ऽपि महीयसि
अतलं तु भवेत्पादौ वितलं जानुनी तव
हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम्
मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो ऽखिलाः
आहारस्ते सदानन्दो वासस्ते हृदये सताम्
शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते
यमाश्च नियमाश्चैव करपादरुहास्तथा
प्राणायामस्तु ते नासा रसना ते सरस्वती
मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः
भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः
आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः
हृदयस्थापि लोकानामदृश्या मोहनात्मिका
नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः
पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः
दधार स्वयमेवैका तस्यै देव्यै नमोनमः
यस्यामुदेति सविता तस्यै देव्यै नमोनमः
यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः
नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै
नमोनमस्ते ऽखिलरूपतन्त्रे नमोनमस्ते ऽखिलयन्त्ररूपे
नमो ऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमोनमः शांभवि सर्वशक्त्यै
अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमंब वर्णये
प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि
भूयोभूयो नमस्कृत्य शरणं जगमुरञ्जसा
वरेण च्छन्दयामास वरदाखिलदेहिनाम्
दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः
अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम्
ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः
विद्याविनयसंपन्ना नीरोगा दीर्घजीविनः
इति लब्धवरा देवा देवेन्द्रो ऽपि महाबलः
आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः