एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनिः
चाक्षुषस्यान्तरे पूर्वं तन्नः प्रब्रूहि पृच्छताम्
शांशपायनिमामन्त्र्य त्र्यंबकाच्छापकारणम्
स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे
तासां ज्येष्ठा सती नाम पत्नी या त्र्यंबकस्य वै
अकरोत्संनतिं दक्षे न कदाचिन्महेश्वरः
ततो ज्ञात्वा सती सर्वाः न्यवसंस्ताः पितुर्गृहे
ताभ्यो हीनां पिता चक्रे सत्याः पूजामसंमताम्
यवीयसीभ्यो प्यधमां पूजां कृत्वा मम प्रभो
अहं ज्येष्ठा वरिष्ठा च त्वं मां सत्कर्तुमर्ह सि
त्वत्तः श्रेष्ठावरिष्ठाश्च पूज्या बालाः सुता मम
ब्रह्मिष्ठाः सुतपस्काश्च महायोगाः सुधार्मिकाः
वसिष्ठो ऽत्रिः पुलस्त्यश्च ह्यङ्गिरा पुलहः क्रतुः
यस्मान्मां स्पर्द्धते शर्वः सदा चैवावमन्यते
इत्युक्तवांस्तदा दक्षः संप्रमूढेन चेतसा
तथोक्ता पितरं सा वै क्रुद्धा देवीदम ब्रवीत्
तस्मात्त्यजाम्यहमिमं देहं तात तवात्मजम्
अब्रवीद्वचनं देवी नमस्कृत्य स्वयंभुवे
तत्राप्यहमसंभूता संभूता धार्मिकादपि
तत्रैवाथ समासीना युक्तात्मानं समादधे
सर्वागेभ्यो विनिःसृत्य वह्निस्तां भस्मसात्करोत्
दक्षस्य च ऋषीणां च चुकोप भगवान्प्रभुः
तं सदा धारयिष्यामि निदेशात्परमेष्ठिनः
तानहं धारया मीह सततं च तदाज्ञया
नाहं तैः सह भोक्षये वै ततो दास्यन्ति ते पृथक्
प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह
उत्पत्स्यन्ते द्वितीये वै मम यज्ञ ह्ययोनिचाः
अभिव्याहृत्य सर्वांस्तान् दक्षं चैवाशपत्पुनः
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचे तसाम्
कन्यायां शाखिनां त्वं वै प्राप्ते वैवस्वतेंऽतरे