मन्त्रिवृद्धानु पाहूय यथावृत्तान्तमाह सः
षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम्
अशक्यप्रतिकार्यो ऽयं यः कालशिवचोदितः
काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा
क्रियाविघ्ने कृते ऽस्माभिर्विजयस्ते भविष्यति
दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा
निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम्
अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम्
संक्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु
वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च
एतद्दृष्ट्वा तु दैत्येन्द्रो विषण्मः स्वपुरं ययौ
भयाद्विव्यथिरे देवा विमुक्तसकलक्रियाः
अशक्यः समरे योद्धुमस्माभिरखिलैरपि
कुण्डं योजनविस्तारं सम्यक्कृत्वा तु शोभनम्
यजामः परमां शाक्तिं महामासैर्वयं सुराः
एवमुक्तास्तु ते सर्वेदेवाः सेन्द्रपुरोगमाः
हुतेषु सर्वमांसेषु पादेषु च करेषु च
प्रादुर्बभूव परमन्तेजः पुञ्जो ह्यनुत्तमः
तन्मध्ये तु महादेवीमुदयार्कसमप्रभाम्
सौन्दर्यसारसीमां तामानन्दरससागराम्
सर्वाभरणसंयुक्तां शृङ्गारैकरसालयाम्
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम्
प्रणेमुर्मुदितात्मानो भूयोभूयो ऽखिलात्मिकम्
तुष्टुवुश्च महादेवीमंबिकामखिलार्थदाम्
जय कल्याणनिलये जय कामकलात्मिके
जयाखिलसुराराध्ये जय कामेशि मानदे
जय नारायणि परे नन्दिताशेषविष्टपे
जय श्रीविजये देवि विजय श्रीसमृद्धिदे
नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे
नमः सहस्रशीर्षायै सहस्रमुखलोचने