विजहुस्ते तथा यज्ञक्रियाश्चान्याः शुभावहाः
मुहूर्त्तमिव तेषां तु ययावब्दायुतं तदा
विमुक्तोपद्रवा ब्रह्मन्नामोदं परमं ययुः
सर्वदेवैः परिवृतं नारदो मुनिराययौ
कृताञ्जलिपुटो भूत्वा देवेशो वाक्यमब्रवीत्
तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि
अशेषदुःखान्युत्तीर्य कृतार्थः स्यां मुनीश्वर
तया विमुक्तो लोकांस्त्रीन्दहेताग्निरिवापरः
तस्य तेजो ऽपहारस्तु कर्तव्यो ऽतिबलस्य तु
अशक्यो ऽन्येन तपसा कल्पकोटिशतैरपि
आराधिता भगवती सा वः श्रेयो विधास्यति
तपसे कृतसन्नाहो ययौ हैमवतं तटम्
इन्द्रप्रस्थमभून्नाम्रा तदाद्यखिलसिद्धिदम्
देव्यास्तु महतीं पूजां जपध्यानरतात्मनाम्
दशवर्षसहस्राणि दशाहानि च संययुः
भण्डासुरं समभ्येत्य निजगाद पुरोहितः
निर्भयास्त्रिषु लोकेषु चरन्तीच्छविहारिणः
तेनैव निर्मिता माया यया संमोहितो भवान्
भवतां विजयार्थाय करोतीन्द्रो महत्तपः
गत्वा हैमवतं शैलं परेषां विघ्नमाचर
मन्त्रिवृद्धानु पाहूय यथावृत्तान्तमाह सः
षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम्
अशक्यप्रतिकार्यो ऽयं यः कालशिवचोदितः
काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा
क्रियाविघ्ने कृते ऽस्माभिर्विजयस्ते भविष्यति
दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा
निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम्
अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम्
संक्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु
वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च