समायाताश्च शतशो दैतेयाः सुमहाबलाः
नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः
तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम्
चक्रे ऽमरपुरप्रख्यं मनसैवेक्षणेन तु
शुशभे परया लक्ष्म्या तेजसा च समन्वितः
दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम्
न रोगो न च दुःखानि संदधौ यन्निषेवणात्
यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः
अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान्
बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा
उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः
चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः
स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः
बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः
गृहेगृहे च यज्ञाश्च संबभूवुः समन्ततः
प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा
तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः
षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत्
हीयमानबलं चेन्द्रं संप्रेक्ष्य कमलापतिः
तामुवाच ततो मायां देवदेवो जनार्दनः
विचरस्व यथाकामं त्वां न ज्ञास्यति कश्चन
मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे
ययाचे ऽप्सरसो मुख्याः सहायार्थं तु काश्चन
प्रययौ मानसस्याग्यं तटमुज्ज्वलभूरुहम्
निवासमकरोद्रम्यं गायन्ती मधुरस्वरम्
श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम्
मायामये महागर्ते पतितो मदनाभिधे
अथास्य मन्त्रिणो ऽभूवन्त्दृदये स्मरतापि ताः
तैश्च संप्रर्थितास्ताश्च प्रतिशूश्रुवुरञ्जसा
ता लब्ध्वा मोहिनीमुख्या निर्वृतिं परमां ययुः