तद्भस्मना तु पुरुषं चित्राकारं चकार सः
महाबलो ऽतितेजस्वी मध्याह्नार्कसमप्रभः
स्तुहि वाल महादेवं स तु सर्वार्थसिद्धिदः
ननाम शतशो रुद्रं शतरुद्रियमाजपन्
वरेण च्छन्दयामास वरं वव्रे स बालकः
तदस्त्रशस्त्रमुख्यानि वृथा कुर्वन्तु नो मम
षष्टिवर्षसहस्राणि राज्यमस्मै ददौ पुनः
यदुवाच ततो नाम्ना भण्डो लोकेषु कथ्यते
दत्त्वास्त्राणि च शस्त्राणि तत्रैवान्तरधाच्च सः
तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः
समायाताश्च शतशो दैतेयाः सुमहाबलाः
नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः
तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम्
चक्रे ऽमरपुरप्रख्यं मनसैवेक्षणेन तु
शुशभे परया लक्ष्म्या तेजसा च समन्वितः
दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम्
न रोगो न च दुःखानि संदधौ यन्निषेवणात्
यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः
अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान्
बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा
उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः
चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः
स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः
बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः
गृहेगृहे च यज्ञाश्च संबभूवुः समन्ततः
प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा
तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः
षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत्
हीयमानबलं चेन्द्रं संप्रेक्ष्य कमलापतिः
तामुवाच ततो मायां देवदेवो जनार्दनः