ईषत्कार्यमिदं कृत्वा त्रायस्वास्मान्महाबल
जगामात्मविनाशाय यतो हिमवतस्तटम्
ददर्शेशानमासीनं कुसुमषुरुदायुधः
आरिराधयिषुश्चा गाद्बिभ्राणा रूपमद्भुतम्
शुश्रूषणपरां तत्र ददर्शातिबलः स्मरः
सुमनोमार्गणैरग्र्यैस्स विव्याध महेश्वरम्
गौरीं विलोकयामास मन्मथाविष्टचेतनः
ददर्शाग्रे तु सन्नद्धं मन्मथं कुसुमायुधम्
तार्तीयं चक्षुरुन्मील्य ददाह मकरध्वजम्
अनुज्ञया ततः पित्रोस्तपः कर्तुमगाद्वनम्
तद्भस्मना तु पुरुषं चित्राकारं चकार सः
महाबलो ऽतितेजस्वी मध्याह्नार्कसमप्रभः
स्तुहि वाल महादेवं स तु सर्वार्थसिद्धिदः
ननाम शतशो रुद्रं शतरुद्रियमाजपन्
वरेण च्छन्दयामास वरं वव्रे स बालकः
तदस्त्रशस्त्रमुख्यानि वृथा कुर्वन्तु नो मम
षष्टिवर्षसहस्राणि राज्यमस्मै ददौ पुनः
यदुवाच ततो नाम्ना भण्डो लोकेषु कथ्यते
दत्त्वास्त्राणि च शस्त्राणि तत्रैवान्तरधाच्च सः
तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः
समायाताश्च शतशो दैतेयाः सुमहाबलाः
नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः
तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम्
चक्रे ऽमरपुरप्रख्यं मनसैवेक्षणेन तु
शुशभे परया लक्ष्म्या तेजसा च समन्वितः
दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम्
न रोगो न च दुःखानि संदधौ यन्निषेवणात्
यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः
अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान्
बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा