शुक्रतुल्यं विचारज्ञं दक्षांसेन ससर्ज सः
धूमिनीनामधेयां च भगिनीं भण्डदानवः
ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः
पलायनपराः सद्यः स्वे स्वे धाम्नि सदावसन्
श्वसितुं चापि पटवो नाभवन्नाकिनां गणाः
केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम्
भ्रष्टाधिकारा ऋभवो विचेरुश्छन्नवेषकाः
मत्वा तृणायितान्सर्वांल्लोकान्भण्डः शशासह
तृतीयमुदभूद्रूपं महायागानलान्मुने
पाशाङ्कुशधनुर्वाणपरिष्कृतचतुर्भुजाम्
जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा
कथं बभञ्ज तं संख्ये तत्सर्वं वद विस्तरात्
पुरा दाक्षायणीं त्यक्त्वा पितुर्यज्ञविनाशनम्
उपास्यमानो मुनिभिरद्वन्द्वगुणलक्षणः
सापि शङ्करमा राध्य चिरकालं मनस्विनी
योगेन स्वां तनुं त्यक्त्वा सुतासीद्धिमभूभृतः
तस्य शुश्रूषणार्थाय स्थापयामास चान्तिके
ब्रह्मणोक्ताः समाहूय मदनं चेदमब्रुवन्
तपश्चचार सुचिरं मनोवाक्कायकर्मभिः
वरेण च्छन्दयामास वरदः सर्वदेहिनाम्
चराचरयुतं चैतत्सृजामि त्वत्प्रसादतः
तदा प्रादुरभूस्त्वं हि जगन्मोहनरूपधृक्
विजयत्वमजेयत्वं प्रादा त्प्रमुदितो हरिः
साक्षिभूतः स्वजनतो भवान्भजतु निर्वृन्तिम्
मनसो निर्वृतिं प्राप्य वर्तते ऽद्यापि मन्मथ
अमोघं बलवीर्यं ते न ते मोघः पराक्रमः
ब्रह्मदत्तवरो ऽयं हि तारको नाम दानवः
शिवपुत्रादृते ऽन्यत्र न भयं तस्य विद्यते
स्वकराच्च भवेत्कार्यं भवतो नान्यतः क्वचित्
हिमाचलतले रम्ये वर्तते मुनिभिर्वृतः