सर्वशृङ्गारवेषाढ्या सर्वाभरणमण्डिता
दृष्ट्वा क्षिप्रमुमां त्यक्त्वा सो ऽन्वधावदथेश्वरः
तस्थाववाङ्मुखी तूष्णीं लज्जासूयासमन्विता
उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः
आश्र्लिष्टं चातिवेगेन तद्वीर्यं प्रच्युतं तदा
अनेककोटिदैत्येन्द्रगर्वनिर्वापणक्षमः
रजतस्वर्मवर्णाभूल्लक्षणाद्विन्ध्यमर्दन
निवृत्तः स गिरीशो ऽपि गिरिं गौरीसखो ययौ
यन्न कस्यचिदाख्यातं ममैव त्दृदयेस्थितम्
पूर्वं देवान्बहुविधान्यः शास्ता स्वेच्छया पटुः
शुक्रतुल्यं विचारज्ञं दक्षांसेन ससर्ज सः
धूमिनीनामधेयां च भगिनीं भण्डदानवः
ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः
पलायनपराः सद्यः स्वे स्वे धाम्नि सदावसन्
श्वसितुं चापि पटवो नाभवन्नाकिनां गणाः
केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम्
भ्रष्टाधिकारा ऋभवो विचेरुश्छन्नवेषकाः
मत्वा तृणायितान्सर्वांल्लोकान्भण्डः शशासह
तृतीयमुदभूद्रूपं महायागानलान्मुने
पाशाङ्कुशधनुर्वाणपरिष्कृतचतुर्भुजाम्
जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा
कथं बभञ्ज तं संख्ये तत्सर्वं वद विस्तरात्
पुरा दाक्षायणीं त्यक्त्वा पितुर्यज्ञविनाशनम्
उपास्यमानो मुनिभिरद्वन्द्वगुणलक्षणः
सापि शङ्करमा राध्य चिरकालं मनस्विनी
योगेन स्वां तनुं त्यक्त्वा सुतासीद्धिमभूभृतः
तस्य शुश्रूषणार्थाय स्थापयामास चान्तिके
ब्रह्मणोक्ताः समाहूय मदनं चेदमब्रुवन्
तपश्चचार सुचिरं मनोवाक्कायकर्मभिः
वरेण च्छन्दयामास वरदः सर्वदेहिनाम्