नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन्
पार्वतीसहितो विष्णुमाजगाम सविस्मयः
भोगिभोगासनाद्विष्णुः समुत्थाय समागतः
तं दृष्ट्वा शीघ्रमागत्य संपूज्यार्घ्यादितो मुदा
तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः
महायोगेश्वर श्रीमन्सर्वसौभाग्यसुन्दरम्
यद्रूपं भवतोपात्तं तन्मह्यं संप्रदर्शय
अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक्
यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम्
तथास्त्विति तिरो ऽधत्त महायोगेश्वरो हरिः
अदृष्टपूर्वमाराममभिरामं व्यलोकयत्
चंपकस्तबकामोदसुरभीकृतदिक्तटम्
अशोकमण्डलीकाण्डसताण्डवशिखण्डिकम्
पाटलोदारसौरभ्यपाटलीकुसुमोज्ज्वलम्
पर्यन्तदीर्घिकादीर्घपङ्कजश्रीपरिष्कृतम्
सन्तानप्रसवामोदसन्तानाधिकवासितम्
पारिजाततरोर्मूले कान्ता काचिददृश्यत
आकृष्टपद्मरागाभा चरणाब्जनखच्छदा
कलनिःस्वनमञ्जीरपदपद्ममनोहरा
करिशुण्डाकदलिकाकान्तितुल्योरुशोभिनी
अलङ्कृतनितंबाढ्या जघनाभोगभासुरा
नतनाभिमहावर्त्तत्रिवल्यूर्मिप्रभाझरा
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः
सोर्मिकां गुलिमन्मृष्टशङ्खसुन्दरकन्धरा
शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः
स्थूलमौक्तिकसन्नद्धनासाभरणभासुरा
अर्धेन्दुतुलिताफाले सम्यक्कॢप्तालकच्छटा
नवकर्पूरकस्तूरीरसामोदितवीटिका
स्फुरत्कस्तूरितिलका नीलकुन्तलसंहतिः
सीमन्तरेखाविन्यस्तसिंदूरश्रेणिभासुरा