निष्ठुरैः किं वृथालापैः कण्ठशोषणहेतुभिः
यूयं तथामी नितरामत्र हि क्लेशभागिनः
मम हस्ते प्रदातव्यं सुधापात्रमनुत्तमम्
पीयूषकलशं तस्यै ददुस्ते मुग्धचेतसः
सुराणामसुराणां च वृथक्पङ्क्तिं चकार ह
तूष्णीं भवन्तु सर्वे ऽपि क्रमशो दीयते मया
सा तु संमोहिताश्लेषलोका दातुं प्रचक्रमे
कमनीयविभूषाढ्या कला सा परमा बभौ
सुधां तां देवतापङ्क्तौ पूर्वं दर्व्या तदादिशत्
पीतामृतशिरोमात्रं तस्य व्योम जगाम च
असुराणां पुरः पात्रं सानिनाय तिरोदधे
उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया
दुर्वलैरसुरैः सार्धं समयुद्ध्यन्त सायुधाः
दिगन्तान्कतिचिज्जग्मुः पातालं कतिचिद्ययुः
आत्मीयां श्रियमाजह्रे श्रीकटाक्ष समीक्षितः
त्रैलोक्यं पालयामास पूर्ववत्पूर्वदेवजित्
यथाकामं चरन्ति स्म सर्वदा हृष्टचेतसः
विस्मितः कामचारी तु कैलासं नारदो गतः
तेन संभाव्यमानो ऽसौ तुष्टो विष्टरमास्त सः
पप्रच्छ पार्वतीजानिः स्वच्छस्फटिकसन्निभः
कलहप्रिय देवर्षे किं वृत्तं तत्र नाकिनाम्
किं वाप्यमृतवृत्तान्तं विष्णुना वापि किं कृतम्
उवाच विस्मयाविष्टः प्रसन्नवदनेक्षणः
तथापि परिपृष्टेन मया तद्वक्ष्यते ऽधुना
आदिनारायमः श्रीमान्मोहिनीरूपमादधे
सुरासुराः समालोक्य विरताः समरोध्यमात्
कृत्वा तामेव मध्यस्थामर्पयामासुरञ्जसा
देवेभ्य एव पीयूषमशेषं विततार सा
ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुत्थिताः
पराजिता महादैत्या नष्टाः पातालमभ्ययुः