अपरेण च देवर्षिर्महता तेजसा मुहुः
तेजसा पुनरन्येन बलात्कारसहेन सः
मथ्यमाने ततस्तस्मिन्क्षीरब्धौ देवदानवैः
मुदं जग्मुस्तदा देवा दैतेयाश्च तपोधन
किमेतदिति सिद्धानां दिवि चिन्तयतां तदा
असुराणां पुरस्तात्सा स्मयमाना व्यतिष्ठत
सुरा न विद्यते येषां तेनैवासुरशब्दिताः
सुराग्रहणतो ऽप्येते सुरशब्देन कीर्तिताः
आविरासीत्सुंगधेन परितो वासयञ्जगत्
आविर्भूताश्च देवर्षे सर्वलोकमनोहराः
विषजातं तदुत्पन्नं जगृहुर्नागजातयः
विजया नाम संजज्ञे भैरवस्तामुपाददे
उपस्थितः करे बिभ्रदमृताढ्यं कमण्डलुम्
मुनयश्चाभवंस्तुष्टास्तदानीं तपसां निधे
उत्थिता पद्महस्ता श्रीस्तस्मात्क्षीरमहार्मवात्
तुष्टुवुस्तुष्ट हृदया गन्धर्वाश्च जगुः परम्
गङ्गाद्याः पुण्यनद्यश्च स्नानार्थमुपतस्थिरे
आदाय स्नापयाञ्चक्रुस्तां श्रियं पद्मवासिनीम्
पद्ममालां ददौ तस्यै मूर्तिमान्क्षीरसागरः
ययौ वक्षस्थलं विष्णोः सर्वेषां पश्यतां रमा
देवान्दयार्द्रया दृष्ट्या सर्वलोकमहेश्वरी
अङ्गीकृता महाधीराः प्रमोदं परमं ययुः
संत्यक्ताश्च श्रिया देव्या भृशमुद्वेगमागताः
अथासुराणां देवानामन्योन्यं कलहो ऽभवत्
सम्यगाराधयामासललितां स्वैक्यरूपिणीम्
ब्रह्मा निजपदं प्राप शंभुः कैलासमास्थितः
असुरैश्च सुराः सर्वे सांपरायमकुर्वत
तदेकध्यानयोगेन तद्रूपः समजायत
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता
मन्दस्मितेन दैतेयान्मोहयन्ती जगद ह