सर्वैरनुगतो देवैः पलायनपरो ऽभवत्
यथावत्कथयामास निखिलं दैत्यचेष्टितम्
हतश्रीकं हरिहयमालोक्येदमुवाच ह
दैत्यारातिर्जगत्कर्ता स ते श्रेयो विधास्यति
समस्तदेवसहितः क्षीरोदधिमुपाययौ
तुष्टुवुर्वाग्वरिष्ठाभिः सर्वलोकमहेश्वरम्
जगाद स कलान्देवाञ्जगद्रक्षणलंपटः
यदुच्यते मयेदानीं युष्माभिस्त द्विधीयताम्
असुरैरपि संधाय सममेव च तैरिह
मयि स्थिते सहाये तु मथ्यताममृतं सुराः
सामान्यमेव युष्माकमस्माकं च फलं त्विति
तत्पानाद्बलिनो यूयममर्त्याश्च भविष्यथ
केवलं क्लेशवन्तश्च करिष्यामि तथा ह्यहम्
नानाविधौषधिगणं समानीय सुरासुराः
प्रारेभिरे प्रयत्नेन मन्थितुं यादसां पतिम्
शिरोभागे तु दैतेया नियुक्तास्तत्र शौरिणा
निर्दग्धवपुषः सर्वे निस्तेजस्कास्तदाभवन्
अनुकूलेन वातेन विष्णुना प्रेरितेन तु
भ्रमतो मन्दराद्रेस्तु तस्या धिष्टानतामगात्
चकर्ष वासुकिं वेगाद्दैत्यमध्ये परेण च
अपरेण च देवर्षिर्महता तेजसा मुहुः
तेजसा पुनरन्येन बलात्कारसहेन सः
मथ्यमाने ततस्तस्मिन्क्षीरब्धौ देवदानवैः
मुदं जग्मुस्तदा देवा दैतेयाश्च तपोधन
किमेतदिति सिद्धानां दिवि चिन्तयतां तदा
असुराणां पुरस्तात्सा स्मयमाना व्यतिष्ठत
सुरा न विद्यते येषां तेनैवासुरशब्दिताः
सुराग्रहणतो ऽप्येते सुरशब्देन कीर्तिताः
आविरासीत्सुंगधेन परितो वासयञ्जगत्
आविर्भूताश्च देवर्षे सर्वलोकमनोहराः