अधुना पश्यनिः श्रीकन्त्रैलोक्यं समजायत
न यमा नापि नियमा न तपासि च कुत्रचित्
निःस्त्त्वा धैर्यहीनाश्च नास्तिकाः प्रायशो ऽभवन्
भास्करो धूसराकारश्चन्द्रमाः कान्तिवर्जितः
न प्रसन्ना दिशां भागा नभो नैव च निर्मलम्
विनष्टप्रयमेवास्ति त्रैलोक्यं सचराचरम्
मलकाद्या महादैत्याः स्वर्गलोकं बबाधिरे
उद्यानपालकान्सर्वानायुधैः समताडयन्
मन्दिरस्थान्सुरान्सर्वानत्यन्तं पर्यपीडयन्
ततो देवाः समस्ताश्च चक्रुर्भृशमबाधिताः
सर्वैरनुगतो देवैः पलायनपरो ऽभवत्
यथावत्कथयामास निखिलं दैत्यचेष्टितम्
हतश्रीकं हरिहयमालोक्येदमुवाच ह
दैत्यारातिर्जगत्कर्ता स ते श्रेयो विधास्यति
समस्तदेवसहितः क्षीरोदधिमुपाययौ
तुष्टुवुर्वाग्वरिष्ठाभिः सर्वलोकमहेश्वरम्
जगाद स कलान्देवाञ्जगद्रक्षणलंपटः
यदुच्यते मयेदानीं युष्माभिस्त द्विधीयताम्
असुरैरपि संधाय सममेव च तैरिह
मयि स्थिते सहाये तु मथ्यताममृतं सुराः
सामान्यमेव युष्माकमस्माकं च फलं त्विति
तत्पानाद्बलिनो यूयममर्त्याश्च भविष्यथ
केवलं क्लेशवन्तश्च करिष्यामि तथा ह्यहम्
नानाविधौषधिगणं समानीय सुरासुराः
प्रारेभिरे प्रयत्नेन मन्थितुं यादसां पतिम्
शिरोभागे तु दैतेया नियुक्तास्तत्र शौरिणा
निर्दग्धवपुषः सर्वे निस्तेजस्कास्तदाभवन्
अनुकूलेन वातेन विष्णुना प्रेरितेन तु
भ्रमतो मन्दराद्रेस्तु तस्या धिष्टानतामगात्
चकर्ष वासुकिं वेगाद्दैत्यमध्ये परेण च