प्रायश्चित्तं च किं तस्य गदस्व वदतां वर
कन्या रूपवती नाम धात्रे तां प्रददौ पिता
नारायणपरो नित्यं वेदवेदाङ्गपारगः
भवानधिकृतो राज्ये देवानामिव वासवः
त्वया कश्चित्कृतः प्रश्न ऋषीणां सन्निधौ तदा
वदन्तु तद्विनिश्चित्य भवन्तो मदनुग्रहात्
तत्पूर्वमेव कथितं मया विधिबलेन वै
तच्छ्रुत्वा ते प्रकुपिताः शेपुर्मामृषयो ऽखिलाः
एवं प्रकुपितैः शप्तः खिन्नः काञ्चीं समाविशम्
भवता सह देवैस्तु पौरोहित्यार्थमादरात्
स्वस्रीयो दानवानां तु देवानां च पुरोहितः
बभूवतुस्तुल्यबलौ तदा देत्येन्द्रवासवौ
हन्तुमिच्छन्नगाश्चाशु तपसः साधनं वनम्
त्रयी मुखरदिग्भागं ब्रह्मानदैकनिष्ठितम्
शिरांसि यौगपद्येन छिन्नात्यासंस्त्वयैव तु
ततो मेरुगुहां नीत्वा बहूनब्दान्हि संस्थितः
पुत्र शोकेन संतप्तस्त्वां शशाप रुषान्वितः
अनाथकास्ततो देवा विषण्णा दैत्यपीडिताः
गत्वा तु ब्रह्मसदनं नत्वा तद्वृत्तमूचिरे
तस्य प्रतिक्रियां वेत्तुं न शशाकात्मभूस्तदा
ततो देवैः परिवृतो नारायणमुपागमत्
विचिन्त्य सो ऽपि बहुधा कृपया लोकनायकः
स्त्रीषु भूम्यां च वृक्षेषु तेषामपि वरं ददौ
छेदे पुनर्भवत्वं तु सर्वेषामपि शाखिनाम्
तेष्वघं प्रबभूवाशु रजोनिर्यासमूषरम्
राज्यश्रियं च संप्राप्तः प्रसादात्परमेष्ठिनः
मम शापो वृथा न स्यादस्तु कालान्तरे मुने
प्रहृष्टो भाविकार्यज्ञस्तूष्णीमेव तदा ययौ
एश्वर्यमदमत्तत्वात्कैलासाद्रिमपीडयत
दुर्वासास्त्वन्मदभ्रंशं कर्त्तुकामः शशाप ह