पुरग्रामाङ्गवैश्याङ्गवेश्योपायनविक्रयी
वैद्यो वैखानसः शैवो नारीजीवो ऽन्नविक्रयी
क्रमाद्दशगुणान्न्यूनमेषामन्नादने भवेत्
तैरेव दृष्टं तद्भुक्तमुक्तपापं विनिर्दिशेत्
तैलपक्वमदृष्टं च भुञ्जन्पादमघं भवेत्
वेश्यायास्तु त्रिपादं स्यात्तथा दृष्टे तदोदने
तैलाज्यगुडसंयुक्तं पक्वं वैश्यान्न दुष्यति
वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टेन किञ्चन
अथवान्तर्जले जप्त्वाद्रुपदां वा त्रिवारकम्
उपोष्य रजनीमेकां ततः पापाद्विशुध्यति
अन्नसूक्तं जपित्वा तु भृगुर्वै वारुणीति च
उपोष्य रजनीमेकां ततः शुद्धो भविष्यति
आपदि ब्राह्मणो ह्येषामन्नं भुक्त्वा न दोषभाक्
सो ऽहंभावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते
सो ऽहंभावेन तज्ज्ञानान्न दोषैः प्रविलिप्यते
ध्यात्वा देवीं परां शक्तिं जप्त्वा पञ्चदशाक्षरीम्
नास्यान्नदोषजं किञ्चिन्न दारिद्रयभयं तथा
जपतो मुक्तिरेवास्य सदा सर्वत्र मङ्गलम्
प्रायश्चित्तं तथा तेषां किमन्यच्छ्रोतुमिच्छसि
दुष्कृतं तत्प्रतीकारो भवता सम्यगीरितः
प्रायश्चित्तं च किं तस्य गदस्व वदतां वर
कन्या रूपवती नाम धात्रे तां प्रददौ पिता
नारायणपरो नित्यं वेदवेदाङ्गपारगः
भवानधिकृतो राज्ये देवानामिव वासवः
त्वया कश्चित्कृतः प्रश्न ऋषीणां सन्निधौ तदा
वदन्तु तद्विनिश्चित्य भवन्तो मदनुग्रहात्
तत्पूर्वमेव कथितं मया विधिबलेन वै
तच्छ्रुत्वा ते प्रकुपिताः शेपुर्मामृषयो ऽखिलाः
एवं प्रकुपितैः शप्तः खिन्नः काञ्चीं समाविशम्
भवता सह देवैस्तु पौरोहित्यार्थमादरात्