कालावस्थासु षट्स्वेते मासाख्या वै व्यवस्थिताः
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्ते ऽभिमानिनः
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानागिमानिनः
संवत्सराश्च स्थानानि कामाख्या ह्यभिमानिनाम्
तत्सतत्त्वास्तदात्मानस्तान्वक्ष्यामि निबोधत
निमेषाश्च कलाः कष्ठा मुहुर्त्ता दिवसाः क्षयाः
ऋतुत्रयं चाप्ययनं द्वे ऽयने दक्षिणोत्तरे
ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट्
यस्माच्चैवार्त्तवेभ्यस्तु जायन्ते स्थाणु जङ्गमाः
समेतास्तु प्रसूयन्ते प्रजाश्चैव प्रजापतेः
स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्त्तिताः
प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः
ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः
द्विपदां चतुष्पदां चैव पक्षिणां सर्वतामपि
ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्त्तितम्
सर्वभूतानि तेभ्यो यदृतुकालाद्विजज्ञिरे
मन्वन्तरेष्विह त्वेते स्थिताः कालभिमानिनः
स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंगमात्
जज्ञे स्वधापितृभ्यस्तु द्वे कन्ये लोकविश्रुते
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे
अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी
मेरोस्तां धारणीं नाम पत्न्यर्थं वा सृजन् घुभाम्
अग्निष्वात्तास्तु तां मेना पत्नी हिमवते ददुः
मेना हिमवतः पत्नी मैनाकं सा व्यजायत
मैनाकस्या त्मजः क्रौचः क्रैञ्चद्वीपो यतः स्मृतः
मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः
धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम्
सवर्णायां सुता जाता दश प्राचीनबर्हिषः
तेषां स्वायंभुवो दक्षः पुत्रत्वं जग्मि वान्प्रभुः