ब्रह्माण्डपुराणम्
द्विगुणेन परां नारीं चतुर्भिः क्षत्रियाङ्गनाम्
द्वात्रिंशता संकरजां वेश्यां शूद्रामिवाचरेत्
स्नात्वान्यवस्त्रसंयुक्तमुक्तार्थेनैव शुध्यति
तथैवान्याङ्गनां गत्वा तदुक्तार्थं समाचरेत्
त्रिरात्रोपोषणाच्छुद्धिस्तामेवोद्वाहयेत्तदा
पित्रोरनुज्ञया पाददिनार्धेन विशुध्यति
वृषलः स तु विज्ञेयः सर्वकर्मबहिष्कृतः
विधवा जायते नेयं पूर्वगन्तारमाप्नुयात्
त्यागकर्माणि कुर्वीत श्रौतस्मार्तादिकानि च
भोगेच्छोः साधनं सा तु न येग्याखिलकर्मसु
पञ्चभूतात्मकं प्रोक्तं चतुर्वासनयान्वितम्
आहारेण विना जन्तुर्नाहारो मदनात्स्मृतः
पुन्नारीरूपवत्कृत्वा मदननेनैव विश्वसृक्
तत्प्रवृत्त्या प्रवर्तन्ते तन्निवृत्त्याक्षयां गतिम्
तद्रहस्यं तदोपायं शृणु वक्ष्यामि सांप्रतम्
इयं हि मूलप्रकृतिर्लक्ष्मीः सर्वजगत्प्रसूः
एवं मन्त्रानुभावात्स्यान्मथनं क्रियते यदि
तावुभौ मन्त्रकर्माणौ न दोषो विद्यते तयोः
स्वस्त्रीविषय एवेदं तयोरपि विधेर्बलात्
तयोरपि मनाक्चेन्न निषिद्धदिवसेष्वघम्
पञ्चविंशतितत्त्वानां प्रीतये मथ्यते ऽधुना
तावुभौ पुण्यकर्माणौ न दोषो विद्यते तयोः
सर्वेषामेव पापानां यौगपद्येन नाशनम्
अष्टोत्तरसहस्रं तु जपेत्पञ्चदशाक्षरीम्
सर्वापद्भ्यो विमुच्येत सर्वाभीष्टं च विन्दति
संयोगजस्य पापस्य विशेषं वक्तुमर्हसि
कर्ता प्रधानः सहकृन्निमित्तो ऽनुमतः क्रमात्
क्रमाद्दशांशतो ऽघं स्याच्छुद्धिः पूर्वोक्तमार्गतः
लशुनं च कलिङ्गं च महाकोशातकीं तथा
औदुंबरं च वार्ताकं कतकं बिल्वमल्लिका