गुरुस्त्रीसंगमे तद्वद्गुरवो बहवः स्मृताः
एकेन वक्ष्यते येन स महागुरुरुच्यते
आचार्यः स तु विज्ञेयस्तदेकैकास्तु देशिकाः
द्वादशाब्दं चरेत्कृच्छ३मेकैकं तु षडब्दतः
ब्राह्मणस्तु सजातीयां प्रमदां यदि गच्छति
कुलटां तु सजातीयां त्रिरात्रेण विशुध्यति
चक्रीकिरातकैवर्तकर्मकारादियोषितः
अनन्त्यजां ब्राह्मणो गत्वा प्रमादादब्दतः शुचिः
दासी चतुर्विधा प्रोक्ता द्वे चाद्ये क्षत्रियासमे
आत्मदासीं द्विजो मोहादुक्तार्थे दोषमाप्नुयात्
द्विगुणेन परां नारीं चतुर्भिः क्षत्रियाङ्गनाम्
द्वात्रिंशता संकरजां वेश्यां शूद्रामिवाचरेत्
स्नात्वान्यवस्त्रसंयुक्तमुक्तार्थेनैव शुध्यति
तथैवान्याङ्गनां गत्वा तदुक्तार्थं समाचरेत्
त्रिरात्रोपोषणाच्छुद्धिस्तामेवोद्वाहयेत्तदा
पित्रोरनुज्ञया पाददिनार्धेन विशुध्यति
वृषलः स तु विज्ञेयः सर्वकर्मबहिष्कृतः
विधवा जायते नेयं पूर्वगन्तारमाप्नुयात्
त्यागकर्माणि कुर्वीत श्रौतस्मार्तादिकानि च
भोगेच्छोः साधनं सा तु न येग्याखिलकर्मसु
पञ्चभूतात्मकं प्रोक्तं चतुर्वासनयान्वितम्
आहारेण विना जन्तुर्नाहारो मदनात्स्मृतः
पुन्नारीरूपवत्कृत्वा मदननेनैव विश्वसृक्
तत्प्रवृत्त्या प्रवर्तन्ते तन्निवृत्त्याक्षयां गतिम्
तद्रहस्यं तदोपायं शृणु वक्ष्यामि सांप्रतम्
इयं हि मूलप्रकृतिर्लक्ष्मीः सर्वजगत्प्रसूः
एवं मन्त्रानुभावात्स्यान्मथनं क्रियते यदि
तावुभौ मन्त्रकर्माणौ न दोषो विद्यते तयोः
स्वस्त्रीविषय एवेदं तयोरपि विधेर्बलात्
तयोरपि मनाक्चेन्न निषिद्धदिवसेष्वघम्