विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः
अन्नं दोषकरं किं तु तन्मे विस्तरतो वद
क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा
स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना
अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा
उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव
स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे
जपेच्चायुतगायत्रीं जातवेदसमेव वा
क्षत्रियो ऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात्
अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात्
भैरवो भैरवी काली महाशास्त्री च मातरः
ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः
तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम्
प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः
रौरवे नरके ऽब्दं तु निवसेद्ब्रिन्दुसंख्यया
प्रायश्चितं न चैवास्य शिलाग्निपतनादृते
अनुग्रहाच्च महतामनुतापाच्च कर्मणः
शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः
एतन्मे मुनिशार्दूल विस्तराद्वक्तुमर्हसि
मातुलस्य प्रिया चेति गत्वेमा नास्ति निष्कृतिः
गुरुस्त्रीसंगमे तद्वद्गुरवो बहवः स्मृताः
एकेन वक्ष्यते येन स महागुरुरुच्यते
आचार्यः स तु विज्ञेयस्तदेकैकास्तु देशिकाः
द्वादशाब्दं चरेत्कृच्छ३मेकैकं तु षडब्दतः
ब्राह्मणस्तु सजातीयां प्रमदां यदि गच्छति
कुलटां तु सजातीयां त्रिरात्रेण विशुध्यति
चक्रीकिरातकैवर्तकर्मकारादियोषितः
अनन्त्यजां ब्राह्मणो गत्वा प्रमादादब्दतः शुचिः
दासी चतुर्विधा प्रोक्ता द्वे चाद्ये क्षत्रियासमे
आत्मदासीं द्विजो मोहादुक्तार्थे दोषमाप्नुयात्