चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः
त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज
निर्वेदं परमापन्ना मुनिमेवमभाषत
हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा
परिहारो ऽथवा किं तु मया कार्यस्तु तेन वा
भोगात्मकं शरीरं तु कर्म कार्यकरं तव
निराहारो महातीर्थेस्नात्वा नित्यं हि सांबिकम्
ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत्
पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः
अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत्
विमुक्तस्तेयदोषेण स्वशरीरमवाप सः
अन्ये तद्द्रव्यवन्तो ऽपि कालधर्ममुपागताः
यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह
किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा
सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते
एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम्
यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा
गाणपत्यमनुप्राप्य कैलासे ऽद्यापि मोदते
सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम्
वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे
विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः
अन्नं दोषकरं किं तु तन्मे विस्तरतो वद
क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा
स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना
अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा
उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव
स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे
जपेच्चायुतगायत्रीं जातवेदसमेव वा
क्षत्रियो ऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात्
अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात्