क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी
क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च
प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः
चक्रुः संतुष्टमनसो महात्मानो महौजसः
तत्रैव वसतिं चक्रे मुदितो भार्यया सह
नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान्
यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः
अत्रान्तरे समागत्य नारदो मुनिरब्रवीत्
अयं किरातश्चैर्येण सेतुबन्धं पुराकरोत्
स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः
चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः
त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज
निर्वेदं परमापन्ना मुनिमेवमभाषत
हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा
परिहारो ऽथवा किं तु मया कार्यस्तु तेन वा
भोगात्मकं शरीरं तु कर्म कार्यकरं तव
निराहारो महातीर्थेस्नात्वा नित्यं हि सांबिकम्
ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत्
पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः
अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत्
विमुक्तस्तेयदोषेण स्वशरीरमवाप सः
अन्ये तद्द्रव्यवन्तो ऽपि कालधर्ममुपागताः
यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह
किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा
सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते
एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम्
यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा
गाणपत्यमनुप्राप्य कैलासे ऽद्यापि मोदते
सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम्
वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे