गात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः
तेषां निसर्गः प्रागुक्तः समासाच्छ्रुयतां पुनः
पितृवन्मन्यमाना वै जज्ञिरे ऽस्योपपक्षतः
ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः
एते स्वायंभुवे पूर्वमुत्पन्नाश्चान्तरे शुभे
अयज्वानस्तथा तेषामासन्ये गृहमेधिनः
यज्वानस्तेषु ये त्वासन्पितरः सोमपीथिनः
ऋतवः पितरो देवाः शास्त्रे ऽस्मिन्निश्चयं गताः
नभाश्चैव नभस्यश्च जीवावेतापुदात्दृतौ
सहश्चैव सहस्यश्च घोरावेतापुदात्दृतौ
कालावस्थासु षट्स्वेते मासाख्या वै व्यवस्थिताः
ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्ते ऽभिमानिनः
स्थानानां व्यतिरेकेण ज्ञेयाः स्थानागिमानिनः
संवत्सराश्च स्थानानि कामाख्या ह्यभिमानिनाम्
तत्सतत्त्वास्तदात्मानस्तान्वक्ष्यामि निबोधत
निमेषाश्च कलाः कष्ठा मुहुर्त्ता दिवसाः क्षयाः
ऋतुत्रयं चाप्ययनं द्वे ऽयने दक्षिणोत्तरे
ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट्
यस्माच्चैवार्त्तवेभ्यस्तु जायन्ते स्थाणु जङ्गमाः
समेतास्तु प्रसूयन्ते प्रजाश्चैव प्रजापतेः
स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्त्तिताः
प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः
ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः
द्विपदां चतुष्पदां चैव पक्षिणां सर्वतामपि
ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्त्तितम्
सर्वभूतानि तेभ्यो यदृतुकालाद्विजज्ञिरे
मन्वन्तरेष्विह त्वेते स्थिताः कालभिमानिनः
स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंगमात्
जज्ञे स्वधापितृभ्यस्तु द्वे कन्ये लोकविश्रुते
ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे