एतस्मादधिकं पापं विश्वस्ते शरणं गते
ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः
तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते
विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत्
यो हन्यादविचारेण सो ऽश्वमेधफलं लभेत्
स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम्
दशोत्तरगुणैः पापैर्लिप्यते धनहारकः
रहस्यातिरहस्यं च सर्वपापप्रणाशनम्
सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः
स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत्
तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति
जहाराविदितस्तेन काष्ठभारं वहन्ययौ
पुनश्च तत्पुरं प्रायाद्वज्रो ऽपि धनतृष्मया
किरातो ऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम्
लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि
चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत्
मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत्
लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः
दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत्
तदेव तिष्ठति चिरादन्यद्गच्छति कालतः
कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान्
बहूदकसमं देशं तत्र तत्र व्यलोकयत्
सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकम्
असंबूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलो ऽभवत्
तेनैव बहुधा क्षिप्तं धनं भूरि महीतले
इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात्
मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः
सेतुमध्ये चकारासौ शङ्करायतनं महत्
तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः
ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून्