अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु किञ्चन
गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते
क्रमाद्दशगुणो दोषो रक्षणे च तथा फलम्
एकद्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेति वदन्ति संतः
तेषां च दर्शनविधौ नमने चकार्ये शूश्रूषणे ऽपि चरतां सदृशांश्च तेषाम्
नृपो हन्याच्च सततं देवार्थे ब्राह्मणार्थके
आपत्स्वात्मार्थके चापि हत्वा मेध्यानि भक्षयेत्
देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते
ससर्ज सर्वदेवांश्च तथैवासुरमानुषान्
यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाच ह
इष्टानि ये प्रदास्यन्ति पुष्टास्ते यज्ञभाविताः
दरिद्रो नारकश्चैव भवेज्जन्मनि जन्मनि
महदागमने चैव हन्यान्मेध्यान्पशून्द्विजः
विहितानि तु कार्याणि प्रतिषिद्धानि वर्जयेत्
ममायमिति देवानां कलहः समजायत
विभज्यैकैकशः प्रदाद्ब्रह्मा लोकपितामहः
कुपिताभूत्ततो ब्रह्मा तामुवाच नयान्वितः
प्राञ्जलिः प्रणतस्तुत्वा प्रसीदेति पुनः पुनः
त्वयैतदखिलं कर्म निर्मितं सुशुभाशुभम्
त्वयैव कल्पिता यागा मन्मुखात्तु महाक्रतौ
ते सर्वे तावकाः संतुभूतानामपि तृप्तये
तदुक्तेनैव विधिना चकार च महाक्रतून्
तत्तद्विभागो वेदेषु प्रोक्तत्वादिह नोदितः
आपत्सु ब्राह्मणो वापि भक्षयेद्गुर्वनुज्ञया
उद्बुध्यस्व पशो त्वं हि नाशिवः सञ्छिवो ह्यसि
यतो विश्वाधिको रुद्रस्तेन रुद्रो ऽसि वै पशो
आत्मार्थं वा परार्थं वा हत्वा दोषैर्न लिप्यते
मनःसंकल्पसिद्धानां महतां शिववर्चसाम्
जपहोमार्चनाद्यैस्तु तेषामिष्टं च सिध्यति
स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद