गजस्तु तां गृहीत्वाथ प्रेषयामास भूतले
उवाच न धृता माला शिरसा तु मयार्पिता
महादेव्या धृता या तु ब्रह्माद्यैः पूज्यतेहि सा
अशोभनो ह्यतेजस्को मम शापाद्भविष्यति
तूष्णीमेव ययौ ब्रह्मन्भाविकार्यमनुस्मरन्
नित्यश्रीर्नित्यपुरुषं वासुदेवमथान्वगात्
विषण्णचेता निःश्रीकश्चिन्तयामास देवराट्
बृहस्पतिं समाहूय वाक्यमेतदुवाच ह
दृश्यते ऽदृष्टपूर्वाणि निमित्तान्यशुभानि च
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं शुभम्
प्रायश्चित्तोपभोगाभ्यां विना नाशो न जायते
तत्सर्वं श्रोतुमिच्छामि तन्मे विस्तरतो वद
कर्म पञ्चविधं प्राहुर्दुष्कृतं धरणीपतेः
चतुष्पदो ऽण्डजाब्जाश्च तिर्यचो ऽनस्थिकास्तथा
दशपञ्चत्रिरेकार्धमानुपूर्व्यादिदं भवेत्
पितृमातृगुरुस्वामि पुत्राणां चैव निष्कृतिः
दशब्राह्मणभृत्यर्थमेकं हन्याद्द्विजं नृपः
पञ्चब्रह्मविदामर्थे त्रैश्यमेकं तु दण्डयेत्
तथा शतविशामर्थे द्विजमेकं तु दण्डयेत्
तच्छतार्थं तु वा वैश्यं तद्दशार्द्धं तु शूद्रकम्
अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु किञ्चन
गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते
क्रमाद्दशगुणो दोषो रक्षणे च तथा फलम्
एकद्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेति वदन्ति संतः
तेषां च दर्शनविधौ नमने चकार्ये शूश्रूषणे ऽपि चरतां सदृशांश्च तेषाम्
नृपो हन्याच्च सततं देवार्थे ब्राह्मणार्थके
आपत्स्वात्मार्थके चापि हत्वा मेध्यानि भक्षयेत्
देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते
ससर्ज सर्वदेवांश्च तथैवासुरमानुषान्
यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाच ह