त्वन्मुखांभोजतो ऽवाप्यसिद्धिं यान्तु परात्पराम्
प्रणिपत्य पुनर्वाक्यमुवाच मधुसूदनम्
किंविहारं किंप्रभावमेतन्मे वक्तुमर्हसि
श्रोतुमिच्छसियद्यत्त्वं तत्सर्वं वक्तुमर्हति
पुरतः कुम्भजातस्य मुनेरन्तरधाद्धरिः
हयग्रीवेण मुनिना स्वाश्रमं प्रत्यपद्यत
हयाननमुपागत्यागस्त्यो वाक्यं समब्रवीत्
लोकाभ्युदयहेतुर्हि दर्शनं हि भवादृशाम्
विहारश्चैव मुख्या ये तान्नो विस्तरतो वद
ध्यानैकदृश्या ध्यानाङ्गी विद्याङ्गी हृदयास्पदा
आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात्
प्रकृतिर्नाम सा ख्याता देवानामिष्टसिद्धिदा
शर्वसंमोहजनकमवाङ्मनसगोजरम्
विसृज्य पार्वतीं शीघ्रन्तया रुद्धो ऽतनोद्रतम्
तस्यां वै जनयामास शास्तारमसुरार्दनम्
अहो विमोहितो देव्या जनयामास चात्मजम्
त्रैलोक्यं पालयामास सदेवासुरमानुषम्
तं प्रमत्तं विदित्वाथ भवानीपतिख्ययः
उन्मत्तरूपधारी च ययौ विद्याधराध्वना
यदृच्छयागता तस्य पुरश्चारुतराकृतिः
तत्समर्पितमाल्यं च लब्ध्वा संतुष्टमानसा
कुत्र वा गम्यते भीरु कुतो लब्धमिदं त्वया
चिरेण तपसा ब्रह्मन्देव्या दत्तं प्रसन्नया
पृष्टमात्रेण सा तुष्टा ददौ तस्मै महात्मने
दधौ स्वशिरसा भक्त्या तामुवाचातिर्षितः
भक्तिरस्तु पदांभोजे देव्यास्तव समुज्ज्वला
सा तं प्रणम्य शिरसा ययौ तुष्टा यथागतम्
विद्याधरवधूहस्तात्प्रतिजग्राह वल्लकीम्
क्वचिद्गृह्णन्क्वचिद्गा यन्क्वचिद्धसन्
स्वकरस्थां ततो मालां शक्राय प्रददौ मुनिः