शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि
शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति
प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम्
कामाक्षीं करिदोषध्नीमपूजयदथात्मवान्
चिरकालेन तपसा तोषितो ऽभूज्जनार्दनः
शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम्
प्रादुर्बभूव पुरतो मुनेरमिततेजसा
विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम्
वरं वरय भद्रं ते भविता भूसुरोत्तमः
यदि तुष्टो ऽसि भगवन्निमे पामरजन्तवः
इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः
अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम्
कृतो दुर्वाससा पश्चाद्भवता तु ततः परम्
ममोपदेशो लोकेषु प्रथितो ऽस्तु वरो मम
सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः
त्रिमूर्तिस्त्रिगुणातीतो गुणहीनो गुणाश्रयः
एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः
मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम्
एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु
त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते
अन्यत्सर्वजगद्रूपं कर्मभोगपराक्रमम्
दुस्तरस्तु तयोस्त्यागः सकलैरपि तापस
अनपायं च सुगमं सदसत्कर्मगोचरम्
आत्मैक्येनैव यज्ज्ञानं सर्वसिद्धिग्रदायकम्
यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते
न ते संसारिणो नूनं मुक्ता एव न संशयः
ईश्वरः सर्वसिद्धानामर्द्धनारीश्वरो ऽभवत्
तस्मादशेषलोकानां त्रिपुराराधनं विना
तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः
एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया