इत्येव वाक्यं ब्रह्मादिगुरुणां समुदात्दृतम्
धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम्
नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते
नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम्
वह्निर्वक्त्रं चन्द्रसूर्यौं च नेत्रेदिशः श्रोत्रे घ्राणमाहुश्च वायुम्
सर्वाणि द्यौर्मस्तकानि त्वथो वै विद्याश्चैवोपनिषद्यस्य पुच्छम्
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः
यतस्तृतीयो विदुषां तृतीयस्तु परं महः
सर्वसिद्धान्तसारज्ञो ब्रह्मानन्दरसात्मकः
शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि
शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति
प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम्
कामाक्षीं करिदोषध्नीमपूजयदथात्मवान्
चिरकालेन तपसा तोषितो ऽभूज्जनार्दनः
शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम्
प्रादुर्बभूव पुरतो मुनेरमिततेजसा
विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम्
वरं वरय भद्रं ते भविता भूसुरोत्तमः
यदि तुष्टो ऽसि भगवन्निमे पामरजन्तवः
इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः
अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम्
कृतो दुर्वाससा पश्चाद्भवता तु ततः परम्
ममोपदेशो लोकेषु प्रथितो ऽस्तु वरो मम
सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः
त्रिमूर्तिस्त्रिगुणातीतो गुणहीनो गुणाश्रयः
एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः
मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम्
एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु
त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते