युगपत्संप्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च
कीर्त्त्यतो वो यथापूर्वं तथैवाप्युपधार्यताम्
तस्मिन्सत्रे ऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति
त्यक्त्वा देहानायुषोंऽते कृतार्थाः पुण्यं लोकं प्राप्य मोदध्वमेवम्
जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः
आयुषोंऽते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः
अनुषङ्ग उपोद्धात उपसंहार एव च
उवाच भागवान्सक्षाद्वायुलोकहिते रतः
तत्प्रसादं च संसिद्धं भूतोत्पत्तिलयान्वितम्
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति
शृणुयाच्छ्रावयेद्वापि तथाध्यापयते ऽपि च
ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोदते
प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति
कृष्णद्वैपायनेनोक्तं पुराण ब्रह्मवादिना
देवतानामृषीणां च भूरिद्रविमतेजसाम्
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः
यस्मात्पुरा ह्यणन्तीदं पुराणं तेन चोच्यते
तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते
यावन्त्यस्य शरीरेषु रोमकूपानि सर्वशः
ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने
बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम्
इन्द्रश्चापि वसिष्ठाय सो ऽपि सारस्वताय च
शरद्वांस्तु त्रिविष्टाय सोंऽतरिक्षाय दत्तवान्
त्रय्यारुणाद्धनञ्जयः स वै प्रादात्कृतञ्जये
गौतमाय भरद्वाजः सो ऽपि निर्य्यन्तरे पुनः
स ददौ सोमशुष्माय स चादात्तृणबिन्दवे
शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम्
द्वैपायना त्पुनश्चापि मया प्राप्तं द्विजोत्तम