तस्मादक्षरमव्यक्तं साम्ये स्थित्वा गुणात्मकम्
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम्
आदिदेवः प्रधानस्यानुग्रहाय प्रजक्षते
अनादिसंयोगयुतौ सर्वं क्षेत्रज्ञमेव च
अप्रत्ययममोघं च स्थितावुदकमत्स्यवत्
अज्ञा गुणैः प्रवर्त्तन्ते रजःसत्त्वतमो ऽभिधैः
विशेषतां चेन्द्रियतां च याति गुणावसानौषधिभिर्मनुष्यः
रजः सत्त्वतमोव्यक्ता विधर्माणः परस्परम्
संसिद्धकार्यकरणा उत्पद्यन्ते ऽभिमानिनः
प्राक्सृतौ ये त्वसुवहाः साधकाश्चाप्यसाधकाः
कार्याणि प्रतिपत्स्यन्ते उत्पत्स्यन्ते पुनः पुनः
आरप्संते हि चान्योन्यं वरेणानुग्रहेण वा
गुणास्तं प्रतिधीयन्ते तस्मात्तत्तस्य रोचते
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
विप्रयोगश्च भूतानां गुणेभ्यः संप्रवर्त्तते
समासादेव वक्ष्यामि ब्रह्मणो ऽथ समुद्भवम्
प्रधानपुरुषाभ्यां तु जायते च महेश्वरः
सृजते स पुनर्लोकानभिमान गुणात्मकान्
युगपत्संप्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च
कीर्त्त्यतो वो यथापूर्वं तथैवाप्युपधार्यताम्
तस्मिन्सत्रे ऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति
त्यक्त्वा देहानायुषोंऽते कृतार्थाः पुण्यं लोकं प्राप्य मोदध्वमेवम्
जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः
आयुषोंऽते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः
अनुषङ्ग उपोद्धात उपसंहार एव च
उवाच भागवान्सक्षाद्वायुलोकहिते रतः
तत्प्रसादं च संसिद्धं भूतोत्पत्तिलयान्वितम्
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति