मृत्युमाञ् जाठरस्याग्नेर्विद्वानाग्निः सुतः स्मृतः
पुत्रस्त्वग्नेर्मन्युमतो घोरः संवर्तकः स्मृतः
समुद्रवासिनः पुत्रः साहरक्षो विभाव्यते
क्रव्यादग्निः सुतस्तस्य पुरुषानत्ति यो मृतान्
ततः शुचिस्तु वै सौरो गन्धर्वैरायुराहुतः
आयुर्नाम्ना तु भगवानसौ यस्तु प्रणीयते
पाकयज्ञेष्वभीमानी सोग्निस्तु सहसः स्मृतः
विविधिश्चाद्भुतस्यापि पुत्रो ऽग्नेस्तुमाहान्स्मृतः
विविधेस्तु सुतो ह्यर्क्क स्तस्य चाग्नेः सुता इमे
सुरभिर्वसुरन्नादो प्रविष्टो यः स रुकमराट्
इत्येते चाग्नयः प्रोक्ताः प्रणीयन्तेध्वरेषु वै
स्वायंभुवे ऽन्तरे पूर्वमग्नयस्तेभिमानिनः
स्थानाभिमानिनो लोके प्रागासन्हव्यवाहनाः
पूर्वमन्वतंरे ऽतीताः शुकैर्यागैश्च तैः सह
इत्येतानि मजोक्तानि स्थानानि स्थानिनश्च ह
सन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्
प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः
मन्वन्तरेषु सर्वेषु नामरूपप्रयोजनैः
अनागतैः सुरैः सार्द्धं वर्त्स्यन्ते ऽनागताग्नयः
विस्तरेणानुपुर्व्या च पितॄणां वक्ष्यते पुनः
गात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः
तेषां निसर्गः प्रागुक्तः समासाच्छ्रुयतां पुनः
पितृवन्मन्यमाना वै जज्ञिरे ऽस्योपपक्षतः
ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः
एते स्वायंभुवे पूर्वमुत्पन्नाश्चान्तरे शुभे
अयज्वानस्तथा तेषामासन्ये गृहमेधिनः
यज्वानस्तेषु ये त्वासन्पितरः सोमपीथिनः
ऋतवः पितरो देवाः शास्त्रे ऽस्मिन्निश्चयं गताः
नभाश्चैव नभस्यश्च जीवावेतापुदात्दृतौ
सहश्चैव सहस्यश्च घोरावेतापुदात्दृतौ