विज्ञाता न च दृश्येत वृथक्त्वेनेह सर्वशः
प्रकृतौ कारणे तत्र स्वात्मन्येवोपतिष्ठति
एकत्वं वा पृथक्वं वा क्षेत्रज्ञः पुरुषो ऽपि वा
कर्त्ता वा सो ऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव च
अवाच्यं तदनाख्यानादग्राह्यं वादहेतुभिः
नालप्य वचसा तत्त्वमप्राप्य मनसा सह
व्यपेतसुखदुःखे च निरुद्धे शान्तिमागते
एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः
क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्गे प्रवर्त्तते
अनादिमांश्च संयोगो महापुरुषजः स्मृतः
पूर्वं हि तस्यैव च बुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थंमेव
अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति
उक्तो ह्यस्मिंस्तदात्यन्तं कालं ज्ञात्वा प्रमुच्यते
विस्तरेणानुपूर्व्याच भूयः किं वर्त्तयाम्यहम्
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम्
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम्
मनः कर्णसुखं सौते प्रीणात्यमृतसन्निभम्
पप्रच्छुः सत्त्रिणः सर्वे पुनः सर्गप्रवर्त्तनम्
बन्धेषु संप्रलीनेषु गुणसाम्ये तमोमये
अप्रवृत्ते ब्रह्मणा तु सहसा योज्यगैस्तदा
एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः
अत्र वो वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते
दृष्टेनैवानुमेयं च तर्कं वक्ष्यामि युक्तितः
अव्यक्त वत्परोक्षत्वाद्गहनं तद्दुरासदम्
प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति
सत्त्वमात्रात्मको धर्मो गुणे सत्त्वे प्रतिष्ठितः
अविभागेन तावेतौ गुणसाम्ये स्थितावुभौ
बुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान्गुणान्
यदा प्रवर्त्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर् द्वयोः