विकारलक्षणं तद्वै सो ऽक्षरः क्षरमेति च
तस्माच्च कारणाच्चैव ज्ञरमित्यभिधीयते
दुःखत्राणात्पुनश्चापि क्षेत्रमित्यभिधीयते
अचेतनत्वाद्विषयस्तद्विधर्मा विभुः स्मृतः
अक्षरं तेन वाप्युक्तम क्षीणत्वात्तथैव च
पुरप्रत्ययिको यस्मात्पुरुषेत्यभिधीयते
शुद्धो निरञ्जनाभासो ज्ञाता ज्ञानविवर्जितः
नैर्हेतुकात्त्वनिर्देश्यादहस्तस्मिन्न विद्यते
आत्मप्रत्ययकारित्वादन्यूनं वाप्यहेतुकम्
यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम्
विज्ञाता न च दृश्येत वृथक्त्वेनेह सर्वशः
प्रकृतौ कारणे तत्र स्वात्मन्येवोपतिष्ठति
एकत्वं वा पृथक्वं वा क्षेत्रज्ञः पुरुषो ऽपि वा
कर्त्ता वा सो ऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव च
अवाच्यं तदनाख्यानादग्राह्यं वादहेतुभिः
नालप्य वचसा तत्त्वमप्राप्य मनसा सह
व्यपेतसुखदुःखे च निरुद्धे शान्तिमागते
एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः
क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्गे प्रवर्त्तते
अनादिमांश्च संयोगो महापुरुषजः स्मृतः
पूर्वं हि तस्यैव च बुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थंमेव
अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति
उक्तो ह्यस्मिंस्तदात्यन्तं कालं ज्ञात्वा प्रमुच्यते
विस्तरेणानुपूर्व्याच भूयः किं वर्त्तयाम्यहम्
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम्
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम्
मनः कर्णसुखं सौते प्रीणात्यमृतसन्निभम्
पप्रच्छुः सत्त्रिणः सर्वे पुनः सर्गप्रवर्त्तनम्
बन्धेषु संप्रलीनेषु गुणसाम्ये तमोमये