अत ऊर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात्
अप्रद्वेषो ऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात्
एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत्
विशुद्धं कार्यकरणं सत्त्वस्यातिनिषैवया
ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा
स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै
शैत्यात्प्रकुपितो वायुरूर्द्ध्वं तूत्क्रमते ततः
समासात्संवृते ज्ञाने संचृत्तेषु च कर्मसु
अष्टाङ्गप्रणवृत्तिं वै स विच्यावयते पुनः
एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते
रञ्जनं तद्विधेयस्य ते तान्यो न च विद्यते
शब्दाद्ये विषये दोषदृष्टिर्वै पञ्चलक्षणे
वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च
अव्यक्ताद्यास्तु विज्ञेया भूतान्ताः प्रकृतेर्भवाः
वर्णाश्रमाणां धर्मो ऽयं देवस्थानेषु कारणम्
ऐश्वर्यमाणिमाद्यं हि कारणं ह्यष्टलक्षणम्
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम्
प्रावृट्काले पृथग्मेघं पश्यन्तीव सचक्षुषः
खादतश्चान्नपानानि योनीः प्रविशतस्तथा
जीवः प्राणस्तथा लिङ्गं करणं च चतुष्टयम्
व्यक्ताव्यक्तप्रमाणो ऽयं स वै भुङ्क्ते तु कृत्स्नशः
एवं ज्ञात्वा शुचिर्भूत्वा ज्ञानाद्वै विप्रमुच्यते
यथेष्टं परिनिर्याति भिन्ने देहे सुनिर्वृते
मुक्तो गुणशरीरेण प्रणाद्येन तु सर्वशः
ज्ञानी च सर्वसंसाराविज्ञशारीरमानसः
प्रकृतिं सत्यमित्याहुर्विकारो ऽनृतमुच्यते
अनामरूपं क्षेत्रज्ञनामरूपं प्रचक्षते
क्षेत्रं प्रत्ययते यस्मात्क्षेत्रज्ञः शुभ उच्यते
क्षेत्रं त्वत्प्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययः सदा
भोज्यत्वविषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः