एष मार्गो हि निरये तिर्य्यग्योनौ च कारणम्
त्रिविधो यातनास्थाने तिर्य्यग्योनौ च षड्विधे
अनैश्वर्यं तु तत्सर्वं प्रतिघातात्मकं स्मृतम्
सत्त्वस्थमात्रकं चित्तं यथासत्त्वं प्रदर्शनात्
सत्त्वक्षेत्रज्ञनानात्वमेतन्नानार्थदर्शनम्
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च
निःसंबन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञान मोक्षयोः
पूर्वं वियोगो ज्ञानेन द्वितीये रागसंक्षयात्
लिङ्गाभावात्तु कैवल्यं कैवल्यात्तु निरञ्जनम्
अत ऊर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात्
अप्रद्वेषो ऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात्
एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत्
विशुद्धं कार्यकरणं सत्त्वस्यातिनिषैवया
ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा
स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै
शैत्यात्प्रकुपितो वायुरूर्द्ध्वं तूत्क्रमते ततः
समासात्संवृते ज्ञाने संचृत्तेषु च कर्मसु
अष्टाङ्गप्रणवृत्तिं वै स विच्यावयते पुनः
एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते
रञ्जनं तद्विधेयस्य ते तान्यो न च विद्यते
शब्दाद्ये विषये दोषदृष्टिर्वै पञ्चलक्षणे
वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च
अव्यक्ताद्यास्तु विज्ञेया भूतान्ताः प्रकृतेर्भवाः
वर्णाश्रमाणां धर्मो ऽयं देवस्थानेषु कारणम्
ऐश्वर्यमाणिमाद्यं हि कारणं ह्यष्टलक्षणम्
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम्
प्रावृट्काले पृथग्मेघं पश्यन्तीव सचक्षुषः
खादतश्चान्नपानानि योनीः प्रविशतस्तथा
जीवः प्राणस्तथा लिङ्गं करणं च चतुष्टयम्