कारणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः
सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः
राजसी तामसी चैव सात्त्विकी चैव वृत्तयः
उर्द्ध्वदेशात्मकं सत्त्वमधोभागात्मकं तमः
इत्येवं परिवर्तन्तेत्रयश्चेतोगुणात्मकाः
अविद्याप्रत्ययारंभा आरभ्यन्ते हि मानवैः
तमसो ऽभिभवाज्जन्तुर्याथातथ्यं न विन्दति
प्राकृतेन च बन्धेन तथ्यावैकारिकेण च
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः
अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम्
कर्म जस्तु पुनर्देहो महादुःखं प्रवर्त्तते
पुनर्भवकरी दुःखात्कर्मणा जायते तृषा
तैलवीडकवज्जीवस्तत्रैव परिवर्त्तते
तं शत्रुमवधार्यैकं ज्ञाने यत्नं समाचरेत्
वैराग्याच्छुध्यते चापि शुद्धः सत्त्वेन मुच्यते
अभिष्वङ्गाय योगः स्याद्विषयेष्ववशात्मनः
दुःखलाभे न तापश्च सुखानुस्मरणं तथा
ब्रह्मादौ स्थावरान्ते वै संसारेह्यादिभौतिके
यस्य चार्षे न प्रमाणं शिष्टाचारं तथैव च
एष मार्गो हि निरये तिर्य्यग्योनौ च कारणम्
त्रिविधो यातनास्थाने तिर्य्यग्योनौ च षड्विधे
अनैश्वर्यं तु तत्सर्वं प्रतिघातात्मकं स्मृतम्
सत्त्वस्थमात्रकं चित्तं यथासत्त्वं प्रदर्शनात्
सत्त्वक्षेत्रज्ञनानात्वमेतन्नानार्थदर्शनम्
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च
निःसंबन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञान मोक्षयोः
पूर्वं वियोगो ज्ञानेन द्वितीये रागसंक्षयात्
लिङ्गाभावात्तु कैवल्यं कैवल्यात्तु निरञ्जनम्