इति होवाच भगवान्वायुर्वाक्यमिदवरम्
ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः
अव्यक्तं ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः
उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित्
अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते
प्रत्याहारे तदा तस्मिन्भूततन्मात्रसंक्षये
स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते
आपस्तदा प्रविष्टास्तु वेगवत्यो महास्वनाः
अपामपि गणो यस्तु ज्योतिःष्वालीयते रसः
तीव्रतेजोहृतरसाज्योतिष्ट्वं प्राप्नुवन्त्युत
अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलं तदा
अर्चिर्भिः संतते तस्मिंस्तर्यगूर्ध्वमधस्ततः
प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते
उपशाम्यति तेजो हिवायुराधूयते महान्
ततस्तु मूलमासाद्य वायुः संबन्धमात्मनः
वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत्
अरूपमरसस्पर्शमगन्धं न च मूर्तिमत्
तस्मिंल्लीने तदा शिष्टमाकाशं शब्दलक्षणम्
तत्र शब्दं गुमं तस्य भूतदिर्ग्रसते पुनः
अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः
महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः
पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्व चिन्तकाः
लीयन्ते गुणसाम्यं तु स्वात्मन्येवावतिष्ठते
इत्येष संयमश्चैव तत्त्वानां कारणैः सह
धर्माधर्मौं तपो ज्ञानं शुभं सत्यानृते तथा
सर्वमेतत्प्रपञ्चस्थं गुणमात्रात्मकं स्मृतम्
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति
जन्तूनां पापपुण्यं तु प्रकृतौ यत्प्रतिष्ठितम्
योजयन्ते पुनर्देहान्परत्वेन तथैव च