प्रपद्य परया भक्त्याज्ञानयुक्तेन तेजसा
यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां श्रुतिम्
लभते रुद्रलोकं वै कारणं लोककारणम्
तदात्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्यचित्
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मके
एवं सप्तद्विरभ्यस्ताः क्रमात्प्रकृतयस्तु वै
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते
उदकावरणं यच्च ज्योतिष्यालीयते तु यत्
यद्वायव्यं चावरणमाकाशग्रसते तु तत्
भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षमः
एतौ संहारविस्तारौ ब्रह्मा व्यक्तौ ततः पुनः
संसिद्धकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये
प्रत्याहारे ऽधियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः
साधर्म्यवैधर्म्यकृतः संयोगो नादिमास्तयोः
ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक्
ब्रह्मा त्वविषयो ज्ञेयो विषयः क्षेत्रमुच्यते
बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः
यस्मात्प्रतिशरीरं हि सुखदुःखो पलब्धिता
यदा प्रवर्त्तते चैषां भेदानां चैव संयमः
निवर्त्तन्ते तदा तस्मिन्स्थितरागाः स्वयंभुवः
विनिवृत्तेस्तदा तेषां स्थितेरात्मनिवासिनाम्
उत्पद्यते ऽथ वैराग्यमात्मवाद प्रणाशनम्
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः
स्वात्मन्येवावतिष्ठन्ते प्रशान्तादर्शनात्मकाः
तत्रैव परिनिर्वाणाः स्मृतानागामिनस्तु ते
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयंभुवा
स व्रजेच्छिवसालोक्यं भक्तिमान्विगतज्वरः
आभूतसंप्लवस्थायी अप्रतीघातलक्षणः
मद्यपो मद्यपैः सार्द्धं भूतसंघैश्च मोदते