विभूतिर्भ्राजते ऽत्यर्थं देवदेवस्य वेश्मनि
तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवः
प्रश्नं देववरप्राण यथावद्वक्तुमर्हसि
यन्मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः
वैश्वानरा भूतगण व्याघ्रास्चैवानुगामिनः
किमावस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत्
यत्र पूर्वं गतास्ते तु कुमारा ब्रह्मणः सुताः
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते
अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरीम्
प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा
तत्र यान्ति महात्मानः परमाणुं महेश्वरम्
ततः पश्यन्त्यपर्वाणं परं ब्रह्माणामेव च
यत्तत्सहस्रं सिंहानामादित्यानां तथैव च
आवेश्यात्मनि तान्सर्वान् संख्यायोग्यभवांस्तथा
विष्णुना सह संयुक्तः करोति विकरोति च
स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात्
ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना
व्रतोपवासनिरताः सर्वभूतदयापराः
प्रपद्य परया भक्त्याज्ञानयुक्तेन तेजसा
यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां श्रुतिम्
लभते रुद्रलोकं वै कारणं लोककारणम्
तदात्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्यचित्
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मके
एवं सप्तद्विरभ्यस्ताः क्रमात्प्रकृतयस्तु वै
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते
उदकावरणं यच्च ज्योतिष्यालीयते तु यत्
यद्वायव्यं चावरणमाकाशग्रसते तु तत्