आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम्
अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे
श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम्
वैश्वानारमुखाः सर्वे विश्वरूपाः कपर्दिनः
अर्द्धचन्द्रकृतोष्णीषा जटामुकुट धारिणः
तरुणादित्यसंकाशाः सर्वे ते पीतवाससः
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः
विभज्य बहुधात्मानं जरामृत्युविवर्जिताः
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चन्यैर्विबोधिताः
एभिः सह महात्मा वै देवदेवो महेश्वरः
नाहं तेषां तु रुद्राणां भवस्य च महात्मनः
मातारिश्वाब्रवीत्पुण्यमित्येतामीश्वराच्छ्रुताम्
श्रुत्वेमां परमां पुण्यां कथां त्रैयंबकीन्ततः
संभाजयित्वा चाप्येनं वायुमूचुर्महाबलम्
ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसार्गिकम्
योगधर्मसमृद्धं वै परमं परमात्मनः
स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः
ब्राह्मी लक्ष्म्या स्वयं जुष्टा या साप्रतिमशालिनी
विभूतिर्भ्राजते ऽत्यर्थं देवदेवस्य वेश्मनि
तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवः
प्रश्नं देववरप्राण यथावद्वक्तुमर्हसि
यन्मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः
वैश्वानरा भूतगण व्याघ्रास्चैवानुगामिनः
किमावस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत्
यत्र पूर्वं गतास्ते तु कुमारा ब्रह्मणः सुताः
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते
अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरीम्