येभ्यो ऽधिकर्त्ता संजज्ञे क्षेत्रज्ञो ब्रह्मसंज्ञितः
अनुत्पाद्यं परं धाम परमाणु परेशयम्
प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः
सतेजा एष तमसो यः पुरस्तात्प्रकाशकः
बृहत्तु सर्वतो वृत्तमीश्वरात्तद्व्यजायते
योनिं प्रकृति माचष्टे सा च नारायणात्मिका
सन्निसर्गः सतत्त्वाच्च लोकधातुर्महात्मनः
त्योर्मध्ये पुरं दिव्यं मन मयमनामयम्
शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम्
अभ्यन्तरं तु विस्तीर्णं महीमण्डलसंस्थितम्
शात कैंभेन महता प्राकारेणार्कवर्चसा
तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम्
रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु
सर्वकामसमृद्धेषु वनोपवनशोभिषु
संध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च
प्रासादवरपृष्ठेषु तेषु मोदन्ति सुव्रताः
गीतवादित्रघोषाश्च संस्रवाश्च समन्ततः
एवमादीनि वर्तन्ते तेषां प्रासादमूर्द्धनि
अनौपम्यैर्वरै रत्नैः सर्वतः संविभूषितः
बालसुर्यमयैश्चापि सौवर्णैश्चाग्निसप्रभैः
आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम्
अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे
श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम्
वैश्वानारमुखाः सर्वे विश्वरूपाः कपर्दिनः
अर्द्धचन्द्रकृतोष्णीषा जटामुकुट धारिणः
तरुणादित्यसंकाशाः सर्वे ते पीतवाससः
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः
विभज्य बहुधात्मानं जरामृत्युविवर्जिताः