कावेरीं कृष्णवेणां च नर्मदां यमुनां तथा
विपाशां कौशिकीञ्चैव शतद्रूं सरयूं तथा
तासु षोडशधामानं प्रविभज्य पृथक्पृथक्
कृत्तिकाचारिणी धिष्णी जज्ञिरे ताश्च धिष्णयः
इत्येते वै नदीपुत्रा धिष्णीष्वेवं विजज्ञिरे
ताञ्शृणुध्वं समासेन कीर्त्यमानान्यथातथम्
विधीयन्ते यथास्थानं सूत्याहे सवने क्रमात्
सम्राडग्नि कृशानुर्यो द्वितीयोंऽतरवेदिकः
परिषत्पवमानस्तु द्वितीय सो ऽनुदिश्यते
हव्यस्ततो ह्यसंमृष्टः शामित्रे ऽग्नौ विभाव्यते
विश्वव्यचाः समुद्रो ऽग्निर्ब्रह्मस्थाने स कीर्त्यते
अचौकपादुपस्थो यः स वै शालासुखीयकः
शंस्यस्यैते सुताः सर्वे उपस्थेया द्विजैः स्मृताः
विभुः प्रवाहणो ऽग्नीध्रस्तेषां धिष्ण्यस्तथा परे
होत्रीयस्तु स्मृते ह्यग्निर्वह्निर्यो हव्यवाहनः
ततो ऽग्निर्वैश्वदेवस्तु ब्राह्मणाच्छंसिरुच्यते
आवारिरग्निर्वाभारिर्वैष्ठीयः स विभाव्यते
अष्टमः सुध्युरग्निर्योमार्जालीयः स उच्यन्ते
अपां योनिः स्मृतो ऽसौ स ह्यप्सुनामा विभाव्यते
अग्निः सो ऽवभृथे ज्ञेयो वरुणेन सहेज्यते
मृत्युमाञ् जाठरस्याग्नेर्विद्वानाग्निः सुतः स्मृतः
पुत्रस्त्वग्नेर्मन्युमतो घोरः संवर्तकः स्मृतः
समुद्रवासिनः पुत्रः साहरक्षो विभाव्यते
क्रव्यादग्निः सुतस्तस्य पुरुषानत्ति यो मृतान्
ततः शुचिस्तु वै सौरो गन्धर्वैरायुराहुतः
आयुर्नाम्ना तु भगवानसौ यस्तु प्रणीयते
पाकयज्ञेष्वभीमानी सोग्निस्तु सहसः स्मृतः
विविधिश्चाद्भुतस्यापि पुत्रो ऽग्नेस्तुमाहान्स्मृतः
विविधेस्तु सुतो ह्यर्क्क स्तस्य चाग्नेः सुता इमे
सुरभिर्वसुरन्नादो प्रविष्टो यः स रुकमराट्