संसारे संसरन्तीह यावन्तः प्राणिनश्च ते
ऋषीणां तद्वचः श्रुत्वा मरुतो वाक्यमब्रवीत्
चक्षुषा वै प्रसंख्यातुमतो ह्यन्ते न च द्विजाः
ब्रह्मणा संज्ञितं यत्तु संख्यया तन्निबोधत
पार्थिवाः कृमयस्तावत्संसेकाद्येषु संभवः
औदका जन्तवः सर्वे निश्चयात्तन्निधार्यताम्
विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः
पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः
द्विपदास्तत्सहस्रेण संमिता धार्मिकाः पुनः
यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि
स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः
रौरवे तमसि ह्येते शीतोष्णं प्राप्नुवन्ति ते
उष्णस्तु रौरवो ज्ञेयस्तेजोघोररसात्मकः
एवं सुदुर्लभाः संतः स्वर्गे वा धार्मिका नराः
गणाना दिनिवृत्तैषा संख्या ब्राह्मी त्वमानुषी
उक्ता ह्येते त्वया लाका लाकानामन्तरण च
स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह
व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः
ऋभुः सनत्कुमाराद्याः संबुद्धाः शुद्धबुद्धयः
अक्षयाः प्रीतिसंयुक्ता ब्राह्मे तिष्ठन्ति योगिनः
यथात्रैव सया दृष्टं सांनिध्यं तत्र कुर्वता
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम्
द्रष्टृत्वमात्मसंबन्धमधिष्टातृत्वमेव च
विभुत्वात्खलु योगाढ्यो ब्रह्मणो ऽनुग्रहे रतः
अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम्
मायया कृतमाचष्टे मायी देवो महेश्वरः
विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत
भूलोकाद्ब्रह्मलोको वै योजनैः संप्रकीर्त्यते
ऊर्द्ध्व भागवतो ऽडं तु ब्रह्मलोकात्परं स्मृतम्
नित्या ह्यपरिसंक्षाताः परस्परगुणाश्रयात्