रङ्गोपजीवको विप्रः शाकनिर्ग्रामयाजकः
सुरापो मासभक्षश्च तथा च पशुघातकः
पर्वकारश्च मूची च यश्च स्यान्मित्रघातकः
उपविष्टं भोक्तुमथ पङ्क्त्यां वै वञ्चयन्ति ये
मृषावादी नरो यश्च तथा प्राक्रोशको ऽशुभः
मधुग्राहाभिहन्तारो यान्ति वैतग्णीं नराः
क्रोधना दुःखदा ये च कुहकाः कृष्णगामिनः
कर्त्तनषु विकृत्यन्त मृगव्याधः सुदारुणैः
भक्ष्यन्ते श्यामशबलैरयस्तुडश्व वायसैः
स्कन्दन्ते ये दिवास्वप्ने व्रतिनो ब्रह्मचारिणः
ते सर्व नरकं यान्ति नियतं तु श्वभोजनम्
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः
भूमेरधस्तात्सप्तैव नरकाः परिकीर्त्तिताः
रौरवः प्रथमस्तेषां महारौरव एव च
तृतीयः कालसूत्रः स्यान्महाहिर्विविधः स्मृतः
लोहः षष्ठः स्मृतस्तेषामविधेयस्तु सप्तमः
सुदारुणस्तु शीतात्मा त्स्याधस्तात्तपो ऽधमः
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सदा स्मृतः
तस्मात्सुदारुणो लोहः कर्मणां श्रयणाच्च सः
पीडाबन्धवधासंगादप्रतीकारलक्षणः
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः कूटागारप्र माणैश्च शरीरैस्तत्र नारकाः
दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः
दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः
तत्रानुभूयते दुःखं क्षीणे कर्मणि वै पुनः
देवांश्च तारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः
उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः
नारकांश्च तथा देवान्सर्वान्पश्यं त्यधेमुखान्
तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते
अथाब्रुवन्पुनर्वायुंब्राह्मणाः सत्रिणस्तदा