साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत्
वेदं विक्रीणतेये च वेदं वै दूषयन्ति ये
अगम्यगामी च नरो नरकं शबलं व्रजेत्
दुरिष्टं कुरुते यस्तु कीडलोहं प्रपद्यते
रत्नं दूषयते यस्तु कृमिभक्षे प्रपद्यते
लालाभक्षे स तिष्ठेत्तु दुर्गन्धे नरके गतः
आरामे ऽप्यग्निदाता यः पतते स विशंसनि
नक्षत्रैर्जीवते यश्च नरो गच्छत्यधोमुखम्
क्षीरं सुरां च लवणं लाक्षां गन्धं रसं तिलान् एवमादीनि विक्रीणन्घोरे पूयवहे पतेत्
पक्षिणश्च मृगाञ्छागान्सो ऽप्येनं नरकं व्रजेत्
रङ्गोपजीवको विप्रः शाकनिर्ग्रामयाजकः
सुरापो मासभक्षश्च तथा च पशुघातकः
पर्वकारश्च मूची च यश्च स्यान्मित्रघातकः
उपविष्टं भोक्तुमथ पङ्क्त्यां वै वञ्चयन्ति ये
मृषावादी नरो यश्च तथा प्राक्रोशको ऽशुभः
मधुग्राहाभिहन्तारो यान्ति वैतग्णीं नराः
क्रोधना दुःखदा ये च कुहकाः कृष्णगामिनः
कर्त्तनषु विकृत्यन्त मृगव्याधः सुदारुणैः
भक्ष्यन्ते श्यामशबलैरयस्तुडश्व वायसैः
स्कन्दन्ते ये दिवास्वप्ने व्रतिनो ब्रह्मचारिणः
ते सर्व नरकं यान्ति नियतं तु श्वभोजनम्
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः
भूमेरधस्तात्सप्तैव नरकाः परिकीर्त्तिताः
रौरवः प्रथमस्तेषां महारौरव एव च
तृतीयः कालसूत्रः स्यान्महाहिर्विविधः स्मृतः
लोहः षष्ठः स्मृतस्तेषामविधेयस्तु सप्तमः
सुदारुणस्तु शीतात्मा त्स्याधस्तात्तपो ऽधमः
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सदा स्मृतः
तस्मात्सुदारुणो लोहः कर्मणां श्रयणाच्च सः