अष्टौ धनुः सहस्राणि योजनं तु विधीयते
एतत्सहस्रं विज्ञेयं शक्रकोशान्तरं तथा
एतेन योजनाग्रेण शृणुध्वं ब्रह्मणोंऽतरे
दिवाकरात्सहस्रे तु शते चौर्द्ध्वं निशाकरः
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशत
ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डरात्
तस्योर्द्ध्वं चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः
उर्द्ध्वं शतसहस्रं तु योजनानां शनैश्चरात्
ऋषिभ्यस्तु सहस्राणां शतादूर्द्ध्वं विभाष्यते
उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि
मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी
सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः
ध्रुवादूर्द्ध्वं महर्लोको यस्मिंस्ते कल्पवासिनः
द्वीकोट्यां तु महर्लोकाज्जनलोको व्यवस्थितः
यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः
षड्गुणं तु तपोलोकात्सत्यलोकान्तरं स्मृतम्
यस्मिन्न च्यवते भूयो ब्रह्मणं य उपासते
ऊर्द्ध्वभागस्ततोंऽडस्य ब्रह्मलोकात्परः स्मृतः
स चौर्द्ध्व संप्रचारो ऽस्य गत्यन्तश्चपरः स्मृतः
अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम्
नरको रौरवो घोरः शूकरस्ताल एवं च
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः
विष्टाकीर्णश्च नरको मूत्रकीर्ण स्तथैव च
अग्निज्वालो महाघोरः संदंशो ऽथाश्वभोजनः
अप्रतिष्ठो ऽथ वीचिश्च नरका ह्येवमादयः
येषु दुष्कृतकर्माणः पतन्तीह वृथक्पृथक्
रौरवे कूटसाक्षे तुमिथ्या यश्चाभिशसति
राधो गोध्रो भ्रूणहा च ह्यग्निदाता पुरस्य च
ताले पतेत्क्षत्रियहा हत्वा वैश्यं च मज्जति
सप्तकुम्भेष्वसौ गामी तथा राजभटश्च यः