नमो रजस्तमःसत्त्वत्रिरूपाय स्वयंभुवे
अजेन विश्वरूपेण निर्गुणेन गुणात्मना
प्रभुंभूतभविष्यस्य साम्प्रतस्य च सत्पतिम्
ऐश्वर्य्यं चैव धर्मश्च सद्भिः सेव्यं चतुष्टयम्
अविंशकः पुनस्तान्वै क्रियाभावार्थमीश्वरः
असृजत्सर्वभूतानि स्थावराणि चराणि च
पुराणाख्यानजिज्ञासुर्गच्छामि शरणं विभुम्
प्रशशंस स भगवान् वसिष्ठाय प्रजापतिः
पौत्रमध्यापयामास शक्तेः पुत्रं पराशरम्
तमध्यापितवान्दिव्यं पुराणं वेदसंमितम्
द्वैपायनाय प्रददौ परं ब्रह्म सनातनम्
लोकतत्त्वविधानार्थं पञ्चभ्यः परमाद्भुतम्
जैमिनिञ्च सुमन्तुं च वैशंपायनमेवच
सूतमद्भुतवृत्तान्तं विनीतं धार्मिकं श्रुचिम्
ऋषिणा च त्वया पृष्टः कृतप्रज्ञः सुधार्मिकः
भक्त्या परमया युक्तः कृत्वा चापि प्रदक्षिणम्
सत्रे सवितते यत्र यजमानानृषीञ्शुचीन्
विधानतो यथाशास्त्रं प्रज्ञयातिजगाम ह
दृष्ट्वा परमसंहृष्टाः प्रीताः सुमनसस्तथा
अभिवाद्य मुनीन्सर्वान् राजाज्ञामभिगम्य च
सदस्यानुमते रम्ये स्वास्तीर्णे समुपाविशत्
मुदान्विता यथान्यायं विनयस्थाः समाहिताः
परमप्रीतिसंयुक्ता इत्यूचुः सूतनन्दनम्
पश्याम धीमन्नत्रस्थाः सुब्रतं मुनिसत्तमम्
भवांस्तस्य मुनेः सूत व्यासस्यापि महात्मनः
कृतबुद्धिश्च ते तत्त्वमनुग्राह्यतया प्रभो
पृच्चतां नः सदा प्राज्ञ सर्वमाख्यातुमर्हसि
श्रोतुं धर्मार्थयुक्तां तु एतव्द्यासाच्छ्रुतं त्वया
उवाच परमाप्राक्ज्ञो विनीतोत्तर मुत्तमम्
यस्माच्छुशूषणार्थं च तत्सत्यमिति निश्चयः